स्वधा स्तोत्र | Swadha stotram |
स्वधा स्तोत्र
नारद उवाच
स्वाधापूजा विधानं च ध्यानं स्तोत्रं महामुने |
श्रोतुमिच्छामि यत्नेन वद वेदविदां वर || १ ||
नारायण उवाच -
ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमंगलम् |
सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये || २ ||
शरत्कृष्ण त्रयोदश्यां मघायां श्राद्धवासरे |
स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् || ३ ||
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यात् अहं मतिः |
न भवेत् फलपाक् सत्यं श्राद्धस्य तर्पणस्य च || ४ ||
ब्रह्मणो मानसीं कन्यां शश्वत् सुस्थिर यौवनाम् |
पूज्या वै पितृदेवानां श्राद्धानां फलदां भजे || ५ ||
इति ध्यात्वा शिलायां वा ह्यथवा मंगले घटे |
दद्यात् पाद्यादिकं तस्मै मूलेनेति श्रुतौ श्रुतम् || ६ ||
ॐ ह्रीं श्रीं क्लिं स्वधादेव्यै स्वाहेति च महामुने |
समुच्चार्य च संपूज्य स्तुत्वा तां प्रणमेद् द्विजः || ७ ||
स्तोत्रं श्रुणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद |
सर्ववांछाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा || ८ ||
श्री नारायण उवाच
स्वधोच्चारण मात्रेण तीर्थस्नायी भवेन्नरः |
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् || ९ ||
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् |
श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च || १० ||
श्राद्धकाले स्वधास्तोत्रं यः श्रृणोति समाहितः |
स लभेत् श्राद्धसंभूतं फलमेव न संशयः || ११ ||
स्वधा स्वधा स्वधे त्येवं त्रिसंध्यं यः पठेन्नरः |
प्रियां विनीतां स लभेत् साध्वीं पुत्र गुणान्विताम् || १२ ||
पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी |
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदां || १३ ||
नित्यां त्वं सत्यरुपासि पुण्यरूपासि सुव्रते |
आविर्भाव तिरोभावौ सृष्टो च प्रलये तव || १४ ||
ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा |
निरुपिताः चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः || १५ ||
कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः |
ईत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि || १६ ||
तस्थौ च सहसा सद्यः स्वधा साऽविर्बभूव ह |
तदा पितृभ्यः प्रददौ तामेव कमलाननाम् || १७ ||
तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः |
स्वधास्तोत्रमिदं पुण्यं यः श्रृणोति समाहितः |
स स्नातः सर्वतीर्थेषु वांछितं फलमाप्नुयात् ||
|| स्वधा स्तोत्रम सम्पूर्णं ||
No comments:
Post a Comment