Monday, November 4, 2024

काली कवच Kali Kavach

 काली कवच Kali Kavach


काली कवच


भैरव्यु उवाच 

कालीपूजा श्रुता नाथ भावाश्च विविधः प्रभो |

इदानीं श्रोतुमिच्छामि कवचं पूर्व सुचितम् ||

त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् |

त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ||


भैरव उवाच

रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे | 

श्रीजगन्मंगलं नाम कवचं मंत्रविग्रहम् |

पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत् क्षणात् ||


नारायणोपि यद्धृत्वा नारी भूत्वा महेश्वरम् |

योगेशं क्षोभनमनयद्यद्धृत्वा च रधूद्धहः |

वरदृत्पान् जघानैव रावणादिनिशाचरान् ||


यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी प्रभुः |

धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः |

एवं हि कला देवाः सर्व्वसिद्धीश्वराः प्रिये ||


श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिश्शिवः |

छन्दोऽनुष्टुब्देवता च कालिका दक्षिणेरिता ||

जगतां मोहने दुष्टानिग्रहे भुक्तिमुक्तिषु |

योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः ||


शिरो में कालिका पातु क्रीङ्कारैकाक्षरी परा |

क्रीं क्रीं क्रीं ललटञ्च कालिका खङ्ग धारिणी ||

हुँ हुँ पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम |

दक्षिणा कालिका पातु घ्राणयुग्मं महेश्वरी ||

क्रीं क्रीं क्रीं रसनां पातु हुं हुं पातु कपोलकम् |

वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरुपिणी ||


द्वाविशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा |

खङ्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ||

क्रीं हुँ ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम |

ऐं हुं ओं ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् ||

अष्टक्षरी महाविद्या भुजौ पातु सकर्त्तृका |

क्रीं क्रीं हुं हुं ह्रीं ह्रीं करौ पातु षडक्षरी मम ||


क्रीं नाभिं मध्येदेशञ्च दक्षिणा कालिकाऽवतु |

क्रीं स्वाहा पातु पृष्ठन्तु कालिका सा दशाक्षरी ||

ह्रीं क्रीं दक्षिणे कालिके ह्रुँ ह्रीं पातु कटीद्वयम् |

काली दशाक्षरी विद्या स्वाहा पातूरुयुग्मकम् |

ॐ ह्राँ क्रीं मे स्वाहा पातु कालिका जानुनी मम ||

कालीह्रन्नाम विद्येयं चतुर्वर्गफलप्रदा |


क्रीं ह्रीं ह्रीं पातु गुल्फं दक्षिणे कालिकेऽवतु |

क्रीं ह्रूँ ह्रीं स्वाहा पदं पातु चतुर्द्दशाक्षरी मम ||

खङ्गमुन्डधरा काली वरदा भयहारिणी |

विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ||

काली कपालिनी कुल्वा कुरुकुल्ला विराधिनी |

विप्रचित्ता तथोग्रोग्रप्रभा दिप्ता घनत्विषः ||


नीलाघना बालिका च माता मुद्रामिता च माम् |

एताः सर्वाः खङ्गधरा मुण्डमालाविभूषिताः ||

रक्षन्तु मां दिक्षु देवी ब्राह्मी नारायणी तथा |

माहेश्वरी च चामुण्डा कौमारी चापराजिता ||

वाराही नारसिंही च सर्वाश्चामितभूषणाः |

रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ||


इत्येवं कथितं दिव्यं कवचं परमाद्भुतम् |

श्री जगन्मंगलं नाम महामन्त्रौघविग्रहम् ||

त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् |

गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः |

कवचं त्रिःसकृद्वापि यावज्जीवञ्च वा पुनः ||


एतच्छातार्द्धभावृत्य त्रैलोक्यविजयी भवेत् |

त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ||

महाकविर्भवेन्मासात्सर्व सिद्धीश्वरो भवेत् ||


पुष्पाञ्जलीन् कालिकायै मुलेनैव पठेत् सकृत् |

शतवर्षसहस्त्राणां पूजायाः फलमाप्नुयात् ||


भूर्ज्जेर्विलिखितञ्जैव स्वर्णस्थं धारयेयदि |

शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि ||

त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् |

बह्वपत्या जीववत्सा भवत्येव न संशयः ||


न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः |

शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् ||

स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे मुखे |

पौत्रान्तस्थैर्य्यमास्थाय निवसत्येव निश्चितम् ||


इदं कवचमज्ञात्वा यो जपेत्कालिदक्षिणाम् |

शतलक्षं प्रजप्यापि तस्य विद्या न सिध्यति |

स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ||


|| अस्तु |

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )