पितृ गीता | Pitru Gita |
पितृ गीता
चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च |
पात्रं यथोक्तं परमा च भक्तिः नृणां प्रयच्छन्ति अभिवाञ्छितानि ||
पितृगीताः तथैवात्र श्लोका तान् श्रृणु सत्तम |
श्रुत्वा तथैव भविता भाव्यं तत्र विधात्मना ||
अपि धन्यः कुले जायात् अस्माकं मतिमान् नरः |
अकुर्वन् वित्तशाठयं यः पिण्डान् यो निर्वपिष्यति ||
रत्नवस्त्र महायानं सर्वं भोगादिकं वसु |
विभवे सति विप्रेभ्यो अस्मान् उद्दिश्य दास्यति ||
अन्नेन वा यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः |
भोजयिष्यति विप्राग्य्रान् तन्मात्रविभवो नरः ||
असमर्थः अन्नदानस्य वन्यशाकं स्वशक्तितः |
प्रदास्यति द्विजाग्रेभ्यः स्वल्पां यो वापि दक्षिणाम् ||
तत्रापि असामर्थ्ययुतः कराग्राग्र स्थितान् तिलान् |
प्रणम्य द्विजमुख्याय कस्मैचिद् द्विज दास्यति ||
तिलैः सप्ताष्टभिर्वापि समवेतां जलाञ्जलिम् |
भक्तिनम्रः समुद्दिश्य अप्यस्माकं संप्रदास्यति ||
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् |
अभावे प्रिणयत्यस्मान् भक्त्या युक्तः प्रदास्यति ||
सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः |
सूर्यादि लोकपालानां इदं उच्चैः पठिष्यति ||
न मेऽस्ति वित्तं न धनं न चान्यत् श्राद्धस्य योग्यं स्वपितृन् नतोऽस्मि |
तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ||
इत्येतत् पितृभिर्गीतं भावाभाव प्रयोजनम् |
कृतं तेन भवेत् श्राद्धं य एवं कुरुते द्विज ||
|| पितृ गीता ||
No comments:
Post a Comment