अर्धनारीनटेश्वर स्तोत्र | Ardhnarinatesvar Stotra |
अर्धनारीनटेश्वर स्तोत्र
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय |
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय || १ ||
कस्तूरिकाकुङ्कुमचर्चितायै चितारजः पुञ्चविचर्चिताय |
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय || २ ||
चलत्कणत्कङ्कणनूपुरायै पदाब्जराजत्फणिनूपुराय |
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय || ३ ||
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय |
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय || ४ ||
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय |
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय || ५ ||
अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय || ६ ||
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय |
जगज्जनन्यैजगदेकपित्रे नमः शिवायै च नमः शिवाय || ७ ||
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय |
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय || ८ ||
एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी |
प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धिः || ९ ||
|| इति अर्धनारिनटेश्वर स्तोत्र सम्पूर्णः ||
No comments:
Post a Comment