आदित्य स्तोत्रम् Aaditya Stotram
आदित्य स्तोत्रम्
नवग्रहाणां सर्वेषां सूर्यादीनां पृथक्पृथक् |
पीडा च दुःसहा राजन् जायते सततं नृणाम् || १ ||
पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः |
सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः || २ ||
आदित्यः सविता सूर्यः पुषाऽर्कः शीघ्रगो रविः |
भगः त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः || ३ ||
दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः |
विभावसुर्वेदकर्ता वेदांगो वेदवाहनः || ४ ||
हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः |
पद्मिनीबोधको भानुर्भास्करः करुणाकरः || ५ ||
द्वादशात्मा विश्वकर्मा लोहितांगः तमोनुदः |
जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः || ६ ||
भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः |
जपाकुसुमसंकाशो भास्वानदितिनन्दनः || ७ ||
ध्वान्तेभासिंहः सर्वात्मा लोकनेत्रो विकर्तनः |
मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः || ८ ||
जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः |
सहस्त्र रश्मिस्तरणिर्भगवान्भक्त वत्सलः || ९ ||
विवस्वानादिदेवश्च देवदेवो दिवाकरः |
धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशकः || १० ||
चराचरात्मा मैत्रेयोऽमितो विष्णु विकर्तनः |
कोकशोकापहर्ता च कमलाकर आत्मभूः || ११ ||
नारायणो महादेवो रुद्रः पुरुष ईश्वरः |
जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः || १२ ||
इन्द्रोऽनलो यमश्चै नैरृतो वरुणोऽनिलः |
श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः || १३ ||
शौरिर्विंधुतुदः केतुः कालः कालात्मको विभुः |
सर्वदेवमयो देवः कृष्णः कामप्रदायकः || १४ ||
य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् |
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः || १५ ||
पुत्रवान् धन्वान् श्रीमाञ्जायते स न संशयः |
रविवारे पठेद्यस्तु नामान्येतानि भास्वतः || १६ ||
पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः |
सद्यः सुखमवाप्नोति चायुर्दीर्धं च नीरुजम् || १७ ||
|| इति श्रीभविष्यपुराणे आदित्यस्तोत्रं ||
No comments:
Post a Comment