श्री कामाख्या कवच Kamakhya kavacham
श्री कामाख्या कवच
|| नारद उवाच ||
कवचं कीदृशं देव्या महाभयनिवर्तकम् ||
कामाख्यायास्तु तद्ब्रूहि साम्प्रतं मे महेश्वर ||
|| श्रीमहादेव उवाच ||
शृणुष्य परमं गुह्यं महाभयनिवर्तकम् |
कामाख्याया: सुरश्रेष्ठ कवचं सर्वमंगलम् ||
यस्य स्मरणमात्रेण योगिनीडाकिनीगणा: |
राक्षस्यो विघ्नकारिण्यो याच्छान्या विघ्नकारिका: ||
क्षुप्तिपासा तथा निद्रा तथान्ये ये च विघ्नदा :|
दूरादपि पलायन्ते कवचस्य प्रसादतः ||
निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः |
समासक्तमनाश्चापि जपहोमादिकर्मसु |
भवेच्च मन्त्रतन्त्राणां निर्विघ्नेन सुसिद्धये ||
ओं प्राच्यां रक्षतु मे तारा कामरुपनिवासिनी |
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ||
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी |
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ||
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी |
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ||
उर्ध्वं रक्षतु मे विद्या मातंगी पीठवासिनी |
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ||
ब्रह्मरुपा महाविद्या सर्वविद्यामयी स्वयम् |
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ||
त्रिपुरा भ्रूयूगे पातु शर्वांणी पातु नासिकाम् |
चक्षुषीचण्डिका पातु श्रोत्रे नीलसरस्वती ||
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती |
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ||
वाग्देवी वदनं पातु वक्ष: पातु महेश्वरी |
बाहू महाभूजा पातु करांगुलीः सुरेश्वरी ||
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी |
उदरं पातु मे नित्यं महाविद्या महोदरी ||
उग्रतारा महादेवी जंघोरू परिरक्षतु |
गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ||
पादांगुलिः सदा पातु भवानी त्रिदशेश्वरी |
रक्तमांसास्थिमज्जादीन्पातु देवी शवासना ||
महाभयेषु घोरेषु महाभयनिवारिणी |
पातु देवी महामाया कामाख्यापीठवासिनी ||
भस्माचलगता दिव्यसिंहासनकृताश्रया |
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ||
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् |
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ||
इदं तु परमं गुह्यं कवचं मुनिसत्तम |
कामाख्याया मयोक्तं ते सर्वरक्षाकरं परम् ||
अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् |
न तं स्पृशेद्धयं घोरं मन्त्रसिद्धिविरोधकम् ||
जायते च मनःसिद्धिर्निर्विघ्नेन महामते |
इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ||
अव्याहताज्ञ:स भवेत्सर्वविद्याविशारद :|
सर्वत्र लभते सौख्यं मंगलं तु दीने दीने ||
यः पठेत्प्रयतो भूत्वा कवचं चेदमद्धुतम् |
स देव्याः पदवीं याति सत्यं सत्यं न संशयः ||
No comments:
Post a Comment