काली स्तोत्र Kali Stotra
काली स्तोत्र
कर्पूरं मध्यमान्त्यस्वरपररहितं सेन्दुवामाक्षियुक्तं |
बीजन्तें मातरेतत्रिपुरहरवधु त्रिःकृतं ये जपन्ति ||
तेषा गद्यानि च मुखकुहरा दुल्लसन्त्येव वाचः |
स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्व्वसिद्धि गतानाम् ||
ईशानः सेन्दुवामश्रवणपरिगतं बीजमन्यन्महेशि
द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् |
जित्वा वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षी
वृन्दं चन्द्रार्द्धचूडे प्रभवति स महाघोरबाणावतंसे ||
इशौ वैश्वानरस्थः शशधर विलसद्वामनेत्रेण युक्तो बीजं
तेद्वन्द्वमन्य द्विगलितचिकुरे कालिके ये जपन्ति |
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्द्वास्त्रधाराद्वयधरवदने दक्षिणे कालिकेति ||
ऊर्द्ध वामे कृपाणं करतलकमले छिन्नमुण्डं तथाधः
सव्ये चाभिर्वरञ्च त्रिजगदघहरे दक्षिणे कालिकेति |
जप्त्वैतन्नामवर्ण तव मनुविभवं भावयन्त्येतदम्ब
तेषामष्टौ करस्थाः प्रकटितवदने सिद्धयस्त्र्यम्बकस्य ||
वर्गाद्यं वह्रिसंस्थं विधुरति ललितं तत्रयं कूर्च्चयुग्मं
लज्जाद्वन्द्वञ्च पश्चाव्स्मितमुखि तदधष्टद्वयं योजयित्वा |
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्ते स्वरुपं
ते लक्ष्मीलास्यलीलाकमलदलदृशःकमामरुपा भवन्ति ||
प्रत्येकं वा त्रयंवा द्वयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजयित्वा सकलमपि सदा भाववन्तो जपन्ति |
तेषां नेत्रारविन्दे विहरति कमला वक्रशुभ्राशुबिम्बे
वाग्देवी दिव्यमुण्डस्त्रगतिशयलसत्कण्ठपीनस्तनढ्ये ||
गतासूनां बाहुप्रकरकृतक्ञ्चीपरिसन्नितम्बां
दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् श्मशानस्थे |
तल्पे शवहृदि महाकालसुरत प्रसक्तां त्वां
ध्यायञ्जजननि जडचेता अपि कविः ||
शिवरभिर्घोराभिः शवनिवसमुण्डास्थिनिकरैः परं
संकीर्णायां प्रकटितचितायां हरवधूम् ||
प्रविष्टां संतुष्टामुपरि सुरतेनातियुवतीं सदा त्वां
ध्यायन्ति क्वचिदपि न तेषां परिभवः ||
वदामस्ते किं वा जननि वयमुच्चैर्जडधियो ने धाता
नापीशो हरिपरि न ते वेत्ति परमम् ||
तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते
तदेतत्क्षन्तव्यं न खलु शिशुरोषः समुचितः ||
समन्तादापीनस्तनजघनधृग्यौवनवती
रतासक्तो नक्तं यदि जपति भक्तस्तवममुम् ||
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः
समस्ताः सिद्धोघा भुवि चिरतरं जीवति कविः ||
समः सुस्थीभूतो जपति विपरीतो यदि यदा
विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् ||
तदा सत्य क्षोणीतलविहरमाणस्य विदुषः
कराम्भोजे वश्याःस्मरहरवधु सिद्धि निवहाः ||
प्रसूते संसारं जननि जगतीं पालयति च
समस्तं क्षित्यादि प्रलयसमये संहरति च ||
अतस्त्वां धातापि त्रिभुवनपतिः श्रीपतिरति
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतिम् ||
अनेके सेवन्ते भवदधिकगीर्व्वाणनिवहान्
विमूढास्ते मातः किमपि न हि जानन्ति परमम् ||
समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः
प्रसक्तऽस्मि स्वैरं रतिरसमहानन्दनिरताम् ||
धरित्री कीलालं शुचिरपि समीरोऽपि गगनं
त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ||
स्तुतिः का ते मातस्तव करुणया मामगतिकं
प्रसन्ना त्वं भूया भावमनु न भूयान्मम जनुः ||
श्मशानस्थस्स्वस्थो गलितचिकुरो दिक्पटधरः
सहस्त्रन्त्वर्काणां निजगलितवीर्य्येण कुसुमम् ||
जपंस्त्वत्प्रत्येकममुमपि तव ध्याननिरतो
महाकालि स्वैरं स भवति धरित्रीपरिवृढः ||
गृहे सम्माज्जर्यन्या परिगलितवीर्य्य हि चिकुरं
समूलं मध्याह्ने वितरति चितायां कुजदिने ||
समुच्चायर्य्य प्रेम्या जपमनु सकृत कालि सततं
गजारुढो याति क्षितपरिवृढः सत्कविवरः ||
सुपुष्पैराकीर्ण कुसुमधनुषो मन्दिर महो
पुरो ध्यायन् यदि जपति भक्तस्स्तवममुम् ||
स गन्धर्व्वश्रेणीपतिरिव कवित्वामृत नदी
नदीनः पर्य्यन्ते परमपदलीनः प्रभवति ||
त्रिपञ्जारे पीठे शवशिववहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ||
महासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वामयि जननि स स्यात्स्मरहरः ||
सलोमास्थि स्वैरं पललमपि मार्ज्जारमसिते
परञ्चौष्ट्रं मेषं नरमहिषयोश्छा गमपि वा ||
बलिन्ते पूजायामपि वितरतां मर्त्यवसतां
सतां सिद्धिः सर्व्वा प्रतिपदमपूर्व्वा प्रभवति ||
वशा लक्षं मन्त्रं प्रजापति हविष्याशनरतो
दिवा मातर्यष्मच्चरणयुगलध्याननिपुणः ||
परं नक्तं नग्नो निधुवनविनोदने च मनुं
जनो लक्षं स स्यात्स्मरहरसमानः क्षितितले ||
इदं स्तोत्रं मातस्तवमनुसमुद्धारणजपः
स्वरुपाख्य पादाम्बुजयुगलपूजाविधियुतम्
निशार्द्धं वा पूजासमयमधि वा यस्तु पठति
प्रलापे तस्यापि प्रसरति कावित्वामृतरसः ||
कुरंगाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरति कुबेरप्रतिनिधिः ||
रिपुः कारागारं कलयति च तत्केलिकलया
चिरं जीवन्मुक्तः स भवति च भक्तः प्रतिजनुः ||
|| अस्तु ||
No comments:
Post a Comment