Friday, November 22, 2024

श्री ललिता देवी उपासना

श्री ललिता देवी उपासना

[1] II श्रीललिता प्रातःस्तोत्रपञ्चकम् II
``````````````````````````````````````````````````
प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥

प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥

प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलयस्थितिहेतुभूतां विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥ ४॥

प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥

[2] ॥ श्रीललिता ध्यानम् ॥
````````````````````````````````````````
बालार्क युत तैजसं त्रिनयनां रक्ताम्बरोल्लसिनीं।
नानालंकृतिराजमानवपुषं बालोडुराट शेखराम्।।
हस्तैरिक्षु धनुः सृणि सुमशरं पाशं मुदा विभ्रतीं।
श्री चक्र स्थितःसुन्दरीं त्रिजगतधारभूतां भजे।।

आदिमरसावलम्बाम् अनिदम्प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १॥

नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ २॥

पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ ३॥

कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ ४॥

[3] II श्रीललिताष्टकम् - श्रीललिताप्रणामस्तोत्रम् II
****************************************
राधामुकुन्द पदसम्भवघर्मबिन्दु
निर्मञ्छनोपकरणीकृत देहलक्षाम् ।
उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां
देवीं गुणैः सुललितां ललितां नमामि ॥ १॥

राकासुधाकिरणमण्डलकान्तिदण्डि
वक्त्रश्रियं चकितचारू चमूरुनेत्राम् ।
राधाप्रसाधनविधानकलाप्रसिद्धां
देवीं गुणैः सुललितां ललितां नमामि ॥ २॥

लास्योल्लसद्भुजगशत्रुपतत्रचित्र
पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् ।
गोरोचनारुचिविगर्हण गौरिमाणं
देवीं गुणैः सुललितां ललितां नमामि ॥ ३॥

धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं
मा दक्षिणा भाव कलङ्किनि लाघवाय ।
राधे गिरं शृणु हितामिति शिक्षयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ४॥

राधामभिव्रजपतेः कृतमात्मजेन
कूटं मनागपि विलोक्य विलोहिताक्षीम् ।
वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ५॥

वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः
सख्यानुशिक्षणकलासु गुरुं सखीनाम् ।
राधाबलावरज जीवितनिर्विशेषां
देवीं गुणैः सुललितां ललितां नमामि ॥ ६॥

यां कामपि व्रजकुले वृषभानुजायाः
प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् ।
सद्यस्तदिष्टघटनेन कृतार्थयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ७॥

राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां
वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः ।
तां गोकुलप्रियसखीनिकुरम्बमुख्यां
देवीं गुणैः सुललितां ललितां नमामि ॥ ८॥

नन्दनमूनि ललितागुणलालितानि
पद्यानि यः पठति निर्मलदृष्टिरष्टौ ।
प्रीत्या विकर्षति जनं निजवृन्दमध्ये
तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ ९॥
II इति श्रीरूपगोस्वामिविरचितस्तवमालायां
श्रीललिताष्टकं - श्रीललिताप्रणामस्तोत्रं सम्पूर्णम् II

[4] II श्रीललिताकवचम् II । नारदपुराणान्तर्गते ।
*******************************************
सनत्कुमार उवाच -
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा ॥ १॥

सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २॥

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ ३॥

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ४॥

वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धदायिनी ॥ ५॥

पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ६॥

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ ७॥

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८॥

पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ९॥

नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १०॥

सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ११॥

तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ १२॥

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ १३॥

गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ १४॥

सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ १५॥

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ १६॥

॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे
बृहदुपाख्याने श्रीललिताकवचं सम्पूर्णम् ॥ अध्यायः ८९॥


[5] II श्रीललिताऽष्टोत्तरशतनामदिव्यस्तोत्रम् II
***************************************
॥ अथ श्रीललिताऽष्टोत्तरशतनामदिव्यस्तोत्रम् ॥

शिवप्रियाशिवाराध्या शिवेष्टा शिवकोमला ।
शिवोत्सवा शिवरसा शिवदिव्यशिखामणिः ॥ १॥

शिवपूर्णा शिवघना शिवस्था शिववल्लभा ।
शिवाभिन्ना शिवार्धाङ्गी शिवाधीना शिवंकरी ॥ २॥

शिवनामजपासक्ता शिवसांनिध्यकारिणी ।
शिवशक्तिः शिवाध्यक्षा शिवकामेश्वरी शिवा ॥ ३॥

शिवयोगीश्वरीदेवी शिवाज्ञावशवर्तिनी ।
शिवविद्यातिनिपुणा शिवपञ्चाक्षरप्रिया ॥ ४॥

शिवसौभाग्यसम्पन्ना शिवकैङ्कर्यकारिणी ।
शिवाङ्कस्था शिवासक्ता शिवकैवल्यदायिनी ॥ ५॥

शिवक्रीडा शिवनिधिः शिवाश्रयसमन्विता ।
शिवलीला शिवकला शिवकान्ता शिवप्रदा ॥ ६॥

शिवश्रीललितादेवी शिवस्य नयनामृता ।
शिवचिन्तामणिपदा शिवस्य हृदयोज्ज्वला ॥ ७॥

शिवोत्तमा शिवाकारा शिवकामप्रपूरिणी ।
शिवलिङ्गार्चनपरा शिवालिङ्गनकौतुकी ॥ ८॥

शिवालोकनसंतुष्टा शिवलोकनिवासिनी ।
शिवकैलासनगरस्वामिनी शिवरञ्जिनी ॥ ९॥

शिवस्याहोपुरुषिका शिवसंकल्पपूरका ।
शिवसौन्दर्यसर्वाङ्गी शिवसौभाग्यदायिनी ॥ १०॥

शिवशब्दैकनिरता शिवध्यानपरायणा ।
शिवभक्तैकसुलभा शिवभक्तजनप्रिया ॥ ११॥

शिवानुग्रहसम्पूर्णा शिवानन्दरसार्ण्वा ।
शिवप्रकाशसंतुष्टा शिवशैलकुमारिका ॥ १२॥

शिवास्यपङ्कजार्काभा शिवान्तःपुरवासिनी ।
शिवजीवातुकलिका शिवपुण्यपरंपरा ॥ १३॥

शिवाक्षमालासंतृप्ता शिवनित्यमनोहरा ।
शिवभक्तशिवज्ञानप्रदा शिवविलासिनी ॥ १४॥

शिवसंमोहनकरी शिवसांराज्यशालिनी ।
शिवसाक्षाद्ब्रह्मविद्या शिवताण्डवसाक्षिणी ॥ १५॥

शिवागमार्थतत्त्वज्ञा शिवमान्या शिवात्मिका ।
शिवकार्यैकचतुरा शिवशास्त्रप्रवर्तका ॥ १६॥

शिवप्रसादजननी शिवस्य हितकारिणी ।
शिवोज्ज्वला शिवज्योतिः शिवभोगसुखंकरी ॥ १७॥

शिवस्य नित्यतरुणी शिवकल्पकवल्लरी ।
शिवबिल्वार्चनकरी शिवभक्तार्तिभञ्जनी ॥ १८॥

शिवाक्षिकुमुदज्योत्स्ना शिवश्रीकरुणाकरा ।
शिवानन्दसुधापूर्णा शिवभाग्याब्धिचन्द्रिका ॥ १९॥

शिवशक्त्यैक्यललिता शिवक्रीडारसोज्ज्वला ।
शिवप्रेममहारत्नकाठिन्यकलशस्तनी ॥ २०॥

शिवलालितळाक्षार्द्रचरणांबुजकोमला ।
शिवचित्तैकहरणव्यालोलघनवेणिका ॥ २१॥

शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजा ।
शिवेतरमहातापनिर्मूलामृतवर्षिणी ॥ २२॥

शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषिता ।
शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिनी ॥ २३॥

शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दिता ।
शिवमायासमाक्रान्तमहिषासुरमर्दिनी ।
शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिनी ॥ २४॥

शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिनी ।
शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुता ॥ २५॥

शिवानलसमुद्भूतभस्मोद्धूलितविग्रहा ।
शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दरी ॥ २६॥

इत्येतल्ललितानाम्नामष्टोत्तरशतं मुने ।
अनेकजन्मपापघ्नं ललिताप्रीतिदायकम् ॥ २७॥

सर्वैश्वर्यप्रदं नॄणामाधिव्याधिनिवारणम् ।
यो मर्त्यः पठते नित्यं सर्वान्कामानवाप्नुयात् ॥ २८॥

II इतिश्री ललितोपाख्याने स्तोत्रखण्डे श्रीललिताष्टोत्तर-
शतनामस्तोत्रं सम्पूर्णम् ॥


[6] II श्रीललिताऽष्टोत्तरशतनामावली II
***********************************
अथ ललिताऽष्टोत्तरशतनामावलिः ॥

ॐ शिवप्रियायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवेष्टायै नमः ।
ॐ शिवकोमलायै नमः ।
ॐ शिवोत्सवायै नमः ॥ ५॥

ॐ शिवरसायै नमः ।
ॐ शिवदिव्यशिखामण्यै नमः ।
ॐ शिवपूर्णायै नमः ।
ॐ शिवघनायै नमः ।
ॐ शिवस्थायै नमः ॥ १०॥

ॐ शिववल्लभायै नमः ।
ॐ शिवाभिन्नायै नमः ।
ॐ शिवार्धाङ्ग्यै नमः ।
ॐ शिवाधीनायै नमः ।
ॐ शिवंकर्यै नमः ॥ १५॥

ॐ शिवनामजपासक्तयै नमः ।
ॐ शिवसान्निध्यकारिण्यै नमः ।
ॐ शिवशक्त्यै नमः ।
ॐ शिवाध्यक्षायै नमः ।
ॐ शिवकामेश्वर्यै नमः ॥ २०॥

ॐ शिवायै नमः ।
ॐ शिवयोगीश्वरीदेव्यै नमः ।
ॐ शिवाज्ञावशवर्तिन्यै नमः ।
ॐ शिवविद्यातिनिपुणायै नमः ।
ॐ शिवपञ्चाक्षरप्रियायै नमः ॥ २५॥

ॐ शिवसौभाग्यसम्पन्नायै नमः ।
ॐ शिवकैङ्कर्यकारिण्यै नमः ।
ॐ शिवाङ्कस्थायै नमः ।
ॐ शिवासक्तायै नमः ।
ॐ शिवकैवल्यदायिन्यै नमः ॥ ३०॥

ॐ शिवक्रीडायै नमः ।
ॐ शिवनिधये नमः ।
ॐ शिवाश्रयसमन्वितायै नमः ।
ॐ शिवलीलायै नमः ।
ॐ शिवकलायै नमः ॥ ३५॥

ॐ शिवकान्तायै नमः ।
ॐ शिवप्रदायै नमः ।
ॐ शिवश्रीललितादेव्यै नमः ।
ॐ शिवस्य नयनामृतायै नमः ।
ॐ शिवचिण्तामणिपदायै नमः ॥ ४०॥

ॐ शिवस्य हृदयोज्ज्वलायै नमः ।
ॐ शिवोत्तमायै नमः ।
ॐ शिवाकारायै नमः ।
ॐ शिवकामप्रपूरिण्यै नमः ।
ॐ शिवलिङ्गार्चनपरायै नमः ॥ ४५॥

ॐ शिवालिङ्गनकौतुक्यै नमः ।
ॐ शिवालोकनसंतुष्टायै नमः ।
ॐ शिवलोकनिवासिन्यै नमः ।
ॐ शिवकैलसनगरस्वामिन्यै नमः ।
ॐ शिवरञ्जिन्यै नमः ॥ ५०॥

ॐ शिवस्याहोपुरुषिकायै नमः ।
ॐ शिवसंकल्पपूरकायै नमः ।
ॐ शिवसौन्दर्यसर्वाङ्ग्यै नमः ।
ॐ शिवसौभाग्यदायिन्यै नमः ।
ॐ शिवशब्दैकनिरतायै नमः ॥ ५५॥

ॐ शिवध्यानपरायणायै नमः ।
ॐ शिवभक्तैकसुलभायै नमः ।
ॐ शिवभक्तजनप्रियायै नमः ।
ॐ शिवानुग्रहसम्पूर्णायै नमः ।
ॐ शिवानन्दरसार्णवायै नमः ॥ ६०॥

ॐ शिवप्रकाशसंतुष्टायै नमः ।
ॐ शिवशैलकुमारिकायै नमः ।
ॐ शिवास्यपङ्कजार्काभायै नमः ।
ॐ शिवान्तःपुरवासिन्यै नमः ।
ॐ शिवजीवातुकलिकायै नमः ॥ ६५॥

ॐ शिवपुण्यपरंपरायै नमः ।
ॐ शिवाक्षमालासंतृप्तायै नमः ।
ॐ शिवनित्यमनोहरायै नमः ।
ॐ शिवभक्तशिवज्ञानप्रदायै नमः ।
ॐ शिवविलासिन्यै नमः ॥ ७०॥

ॐ शिवसंमोहनकर्यै नमः ।
ॐ शिवसाम्राज्यशालिन्यै नमः ।
ॐ शिवसाक्षात्ब्रह्मविद्यायै नमः ।
ॐ शिवताण्डवसाक्षिण्यै नमः ।
ॐ शिवागमार्थतत्त्वज्ञायै नमः ॥ ७५॥

ॐ शिवमान्यायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ शिवकार्यैकचतुरायै नमः ।
ॐ शिवशास्त्रप्रवर्तकायै नमः ।
ॐ शिवप्रसादजनन्यै नमः ॥ ८०॥

ॐ शिवस्य हितकारिण्यै नमः ।
ॐ शिवोज्ज्वलायै नमः ।
ॐ शिवज्योतिषे नमः ।
ॐ शिवभोगसुखंकर्यै नमः ।
ॐ शिवस्य नित्यतरुण्यै नमः ॥ ८५॥

ॐ शिवकल्पकवल्लर्यै नमः ।
ॐ शिवबिल्वार्चनकर्यै नमः ।
ॐ शिवभक्तार्तिभञ्जनायै नमः ।
ॐ शिवाक्षिकुमुदज्योत्स्नायै नमः ।
ॐ शिवश्रीकरुणाकरायै नमः ॥ ९०॥

ॐ शिवानन्दसुधापूर्णायै नमः ।
ॐ शिवभाग्याब्धिचन्द्रिकायै नमः ।
ॐ शिवशक्त्यैक्यललितायै नमः ।
ॐ शिवक्रीडारसोज्ज्वलायै नमः ।
ॐ शिवप्रेममहारत्नकाठिन्यकलशस्तन्यै नमः ॥ ९५॥

ॐ शिवलालितलाक्षार्द्रचरणांबुजकोमलायै नमः ।
ॐ शिवचित्तैकहरणव्यालोलघनवेणिकायै नमः ।
ॐ शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजायै नमः ।
ॐ शिवेतरमहातापनिर्मूलामृतवर्षिण्यै नमः ।
ॐ शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषितायै नमः ॥ १००॥

ॐ शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिन्यै नमः ।
ॐ शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दितायै नमः ।
ॐ शिवमायासमाक्रान्तमहिषासुरमर्दिन्यै नमः ।
ॐ शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिन्यै नमः ।
ॐ शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिन्यै नमः ॥ १०५॥

ॐ शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुतायै नमः ।
ॐ शिवानलसमुद्भूतभस्मोद्धूलितविग्रहायै नमः ।
ॐ शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दर्यै नमः ।
II इति श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णा ॥


[7] II ललिता माता की चालीसा : जयति-जयति जय ललिते माता II
******************************************************
।।चौपाई।।

जयति-जयति जय ललिते माता। तव गुण महिमा है विख्याता।।
तू सुन्दरी, त्रिपुरेश्वरी देवी। सुर नर मुनि तेरे पद सेवी।।

तू कल्याणी कष्ट निवारिणी। तू सुख दायिनी, विपदा हारिणी।।
मोह विनाशिनी दैत्य नाशिनी। भक्त भाविनी ज्योति प्रकाशिनी।।

आदि शक्ति श्री विद्या रूपा। चक्र स्वामिनी देह अनूपा।।
हृदय निवासिनी-भक्त तारिणी। नाना कष्ट विपति दल हारिणी।।

दश विद्या है रूप तुम्हारा। श्री चन्द्रेश्वरी नैमिष प्यारा।।
धूमा, बगला, भैरवी, तारा। भुवनेश्वरी, कमला, विस्तारा।।

षोडशी, छिन्न्मस्ता, मातंगी। ललितेशक्ति तुम्हारी संगी।।
ललिते तुम हो ज्योतित भाला। भक्तजनों का काम संभाला।।

भारी संकट जब-जब आए। उनसे तुमने भक्त बचाए।।
जिसने कृपा तुम्हारी पाई। उसकी सब विधि से बन आई।।

संकट दूर करो मां भारी। भक्तजनों को आस तुम्हारी।।
त्रिपुरेश्वरी, शैलजा, भवानी। जय-जय-जय शिव की महारानी।।

योग सिद्धि पावें सब योगी। भोगें भोग महा सुख भोगी।।
कृपा तुम्हारी पाके माता। जीवन सुखमय है बन जाता।।

दुखियों को तुमने अपनाया। महा मूढ़ जो शरण न आया।।
तुमने जिसकी ओर निहारा। मिली उसे संपत्ति, सुख सारा।।

आदि शक्ति जय त्रिपुर प्यारी। महाशक्ति जय-जय, भय हारी।।
कुल योगिनी, कुंडलिनी रूपा। लीला ललिते करें अनूपा।।

महा-महेश्वरी, महाशक्ति दे। त्रिपुर-सुन्दरी सदा भक्ति दे।।
महा महा-नन्दे कल्याणी। मूकों को देती हो वाणी।।

इच्छा-ज्ञान-क्रिया का भागी। होता तब सेवा अनुरागी।।
जो ललिते तेरा गुण गावे। उसे न कोई कष्ट सतावे।।

सर्व मंगले ज्वाला-मालिनी। तुम हो सर्वशक्ति संचालिनी।।
आया मां जो शरण तुम्हारी। विपदा हरी उसी की सारी।।

नामा कर्षिणी, चिंता कर्षिणी। सर्व मोहिनी सब सुख-वर्षिणी।।
महिमा तव सब जग विख्याता। तुम हो दयामयी जग माता।।

सब सौभाग्य दायिनी ललिता। तुम हो सुखदा करुणा कलिता।।
आनंद, सुख, संपत्ति देती हो। कष्ट भयानक हर लेती हो।।

मन से जो जन तुमको ध्यावे। वह तुरंत मन वांछित पावे।।
लक्ष्मी, दुर्गा तुम हो काली। तुम्हीं शारदा चक्र-कपाली।।

मूलाधार, निवासिनी जय-जय। सहस्रार गामिनी मां जय-जय।।
छ: चक्रों को भेदने वाली। करती हो सबकी रखवाली।।

योगी, भोगी, क्रोधी, कामी। सब हैं सेवक सब अनुगामी।।
सबको पार लगाती हो मां। सब पर दया दिखाती हो मां।।

हेमावती, उमा, ब्रह्माणी। भण्डासुर की हृदय विदारिणी।।
सर्व विपति हर, सर्वाधारे। तुमने कुटिल कुपंथी तारे।।

चन्द्र-धारिणी, नैमिश्वासिनी। कृपा करो ललिते अधनाशिनी।।
भक्तजनों को दरस दिखाओ। संशय भय सब शीघ्र मिटाओ।।

जो कोई पढ़े ललिता चालीसा। होवे सुख आनंद अधीसा।।
जिस पर कोई संकट आवे। पाठ करे संकट मिट जावे।।

ध्यान लगा पढ़े इक्कीस बारा। पूर्ण मनोरथ होवे सारा।।
पुत्रहीन संतति सुख पावे। निर्धन धनी बने गुण गावे।।

इस विधि पाठ करे जो कोई। दु:ख बंधन छूटे सुख होई।।
जितेन्द्र चन्द्र भारतीय बतावें। पढ़ें चालीसा तो सुख पावें।।

सबसे लघु उपाय यह जानो। सिद्ध होय मन में जो ठानो।।
ललिता करे हृदय में बासा। सिद्धि देत ललिता चालीसा।।

।।दोहा।।
ललिते मां अब कृपा करो सिद्ध करो सब काम।
श्रद्धा से सिर नाय करे करते तुम्हें प्रणाम।।


[8] II मां ललिता की आरती : श्री मातेश्वरी जय त्रिपुरेश्वरी! II
***********************************************
श्री मातेश्वरी जय त्रिपुरेश्वरी!
राजेश्वरी जय नमो नम:!!

करुणामयी सकल अघ हारिणी!
अमृत वर्षिणी नमो नम:!!

जय शरणं वरणं नमो नम:
श्री मातेश्वरी जय त्रिपुरेश्वरी...!

अशुभ विनाशिनी, सब सुखदायिनी!
खलदल नाशिनी नमो नम:!!

भंडासुर वध कारिणी जय मां!
करुणा कलिते नमो नम:!!

जय शरणं वरणं नमो नम:
श्री मातेश्वरी जय त्रिपुरेश्वरी...!
भव भय हारिणी कष्ट निवारिणी!
शरण गति दो नमो नम:!!

शिव भामिनी साधक मन हारिणी!
आदि शक्ति जय नमो नम:!!

जय शरणं वरणं नमो नम:!
श्री मातेश्वरी जय त्रिपुरेश्वरी...!!

जय त्रिपुर सुंदरी नमो नम:!
जय राजेश्वरी जय नमो नम:!!

जय ललितेश्वरी जय नमो नम:!
जय अमृत वर्षिणी नमो नम:!!

जय करुणा कलिते नमो नम:!
श्री मातेश्वरी जय त्रिपुरेश्वरी...!

[9] II श्रीललिता पुष्पाञ्जलि स्तोत्रम् II
*****************************
॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥

ॐ समस्तमुनियक्षकिम्पुरुषसिद्धविद्याधर-
ग्रहासुरसुराप्सरोगणमुखैर्गणैः सेविते! ।
निवृत्तितिलकाम्बराप्रकृतिशान्तिविद्याकला-
कलापमधुराकृते कलित एष पुष्पाञ्जलिः ॥ १॥

त्रिवेदकृतविग्रहे, त्रिविधकृत्यसन्धायिनि,
त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि! ।
त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे
त्रयि, त्रिपुरसुन्दरि, त्रिजगदीशि! पुष्पाञ्जलिः ॥ २॥

पुरन्दरजलाधिपान्तककुबेररक्षोहर-
प्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते! ।
प्रवालपदपीठीकानिकटनित्यवर्तिस्वभू-
विरिञ्चिविहितस्तुते! विहित एष पुष्पाञ्जलिः ॥ ३॥

यदानतिबलादहङ्कृतिरुदेति विद्यावय-
स्तपोद्रविणरूपसौरभकवित्वसंविन्मयि! ।
जरामरणजन्मजं भयमुपैति तस्यै समा-
खिलसमीहितप्रसवभूमि! तुभ्यं नमः ॥ ४॥

निरावरणसंविदुद्भ्रमपरास्तभेदोल्लसत्-
परात्परचिदेकतावरशरीरिणि, स्वैरिणि! ।
रसायनतरङ्गिणीरुचितरङ्गसञ्चारिणि!,
प्रकामपरिपूरिणि! प्रकृत एष पुष्पाञ्जलिः ॥ ५॥

तरङ्गयति सम्पदं तदनुसंहरत्यापदं
सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः ।
क्षिणोति दुरितानि यत् प्रणतिरम्ब! तस्यै सदा
शिवङ्करि! शिवे पदे, शिवपुरन्ध्रि तुभ्यं नमः ॥ ६॥

शिवे, शिवसुशीतलामृततरङ्गगन्धोल्लस-
न्नवावरणदेवते!, नवनवामृतस्पन्दिनी! ।
गुरुक्रमपुरस्कृते! गुणशरीरनित्योज्ज्वले!
षडङ्गपरिवारिते! कलित एष पुष्पाञ्जलिः ॥ ७॥

त्वमेव जननी पिता त्वमथ बन्धवस्त्वं सखा
त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कलाः ।
त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः
प्रसीद परमेश्वरि! प्रणतपात्रि, तुभ्यं नमः ॥ ८॥

कञ्जासनादिसुरवृन्दलसत्किरीटकोटिप्रघर्षणसमुज्ज्वलदङ्घ्रिपीठे ।
त्वामेव यामि शरणं विगतान्यभावं दीनं विलोकय यदार्द्रविलोकनेन ॥ ९॥

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )