DEVI PURAN KAMAKHYA KVACHAM॥ अथ देवीपुराणे कामाख्या कवचम् ॥
॥ श्रीनारद उवाच ॥ 
 कामरूपे महाक्षेत्रे काऽधिष्ठात्री महेश्वरी ।
 विद्यानां दशमूर्तिनां तन्मे ब्रूहि महेश्वर ॥ १ ॥
 ॥ श्रीमहादेव उवाच ॥ 
 दशैवैता महाविद्याः क्षेत्रस्था मुनिसत्तम ।
 साधकानां हितार्थाय जपपूजाफलप्रदाः ॥ २ ॥
 कामाख्या कालिका देवी स्वयमाद्या सनातनी ।
 तस्याः पार्श्वे स्थिताश्चान्या नव विद्या महामते ॥ ३ ॥
 सर्वविद्यात्मिका काली कामाख्यारूपिणी यतः ।
 ततस्तां तत्र सम्पूज्य पूजयित्वेष्टदेवताम् ॥
 इष्टमन्त्रं जपेद्भक्त्या सिद्धमन्त्रो भवेत्तदा ॥ ३ ॥
 ध्यायतां परमेशानीं कामाख्यां कालिकां पराम् ।
 रक्तवस्त्रपरीधानां घोरनेत्रत्रयोज्ज्वलाम् ॥ ५ ॥
 चतुर्भुजां भीमदंष्ट्रां युगान्तजलदद्युतिम् ।
 मणिसिंहासने न्यस्तां सिंहप्रेताम्बुजस्थिताम् ॥ ६ ॥
 हरिः सिंहः शवः शम्भुर्ब्रह्मा कमलरूपधृक् ।
 ललजिह्वां महाघोरां किरीटकनकोज्ज्वलाम् ॥ ७ ॥
 अनर्घ्यमणिमाणिक्यघटितैर्भूषणोत्तमैः ।
 अलंकृतां जगद्धात्रीं सृष्टिस्थित्यन्तकारिणीम् ॥ ८ ॥
 वामे तारा भगवती दक्षिणे भुवनेश्वरी ।
 अग्नौ तु षोडशीविद्या नैर्ऋत्यां भैरवी स्वयम् ॥ ९ ॥
 वायव्यां छिन्नमस्ता च पृष्ठतो बगलामुखी ।
 ऐशान्यां सुन्दरी विद्या चोर्द्ध्वमातङ्गनायिका ॥ १० ॥
 याम्यां धूमावती विद्या महापीठस्य नारद ।
 अधस्ताद्भगवानुद्रो भस्माचलमयः स्वयम् ॥ ११ ॥
 ब्रह्मविष्णुमुखाश्चान्ये देवाः शक्तिसमन्विताः ।
 सदा संनिहितास्तत्र पीठे लोके सुदुर्लभे ॥ १२ ॥
 तत्र सम्पूजयेद्देवीं परिवारसमन्विताम् ।
 विविधैरुपचारैश्च यथाविभवविस्तरैः ॥ १३ ॥
 इच्छन्देव्याः परां प्रीतिं सद्भक्त्या प्रयतो नरः ।
 न पुनर्जननाशङ्का विद्यते मुनिसत्तम ॥ १४ ॥
 बिल्वपत्रं महादेव्यै यो दद्याद्भक्तिभावतः ।
 स साक्षाच्छंकरो ज्ञेयः सर्वलोकेश्वरेश्वरः ॥ १५ ॥
 त्रिपत्रं बिल्वपत्रं तु ब्रह्मविष्णुशिवात्मकम् ।
 यदात्मकमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १६ ॥
 तद्ददाति च यो देव्यै पूर्णायै मुनिसत्तम ।
 सम्पूर्णजगतो दानफलं सम्प्राप्नुयान्नरः ॥ १७ ॥
 सम्पूर्णकामो भूपृष्ठे विहरेन्मानवोत्तमः ।
 तस्य जन्म च सम्पूर्णं न पुनर्जायते क्वचित् ॥ १८ ॥
 तत्र यो भक्तिभावेन भस्माचलमयं शिवम् ।
 पूजयेद्धस्मलिप्ताङ्गो बिल्वपत्रैर्महामते ।
 स याति परमं मोक्षं भुक्त्वा भोगं मनोरथम् ॥ १९ ॥
 रुद्राक्षं बिभृयान्नित्यं शैवः शाक्तोऽथ वैष्णवः ।
 युक्तास्तेन महापुण्यं कृत्वा कर्म समश्नुते ॥ २० ॥
 रुद्राक्षधारी सम्पूज्य रुद्रं संहारकारकम् ।
 रुद्रत्वं समवाप्नोति क्षेत्रेऽस्मिन्नात्र संशयः ॥ २१ ॥
 अमायां वा चतुर्दश्यामष्टम्यां वा दिनक्षये ।
 नवम्यां रजनीयोगे योजयेद्भैरवीमनुम् ॥ २२ ॥
 क्षेत्रेऽस्मिन्प्रयतो भूत्वा निर्भयः साहसं वहन् ।
 तस्य साक्षाद्भगवती प्रत्यक्षं जायते ध्रुवम् ॥ २३ ॥
 आत्मसंरक्षणार्थाय मन्त्रसंसिद्धयेऽपि च ।
 प्रपठेत्कवचं देव्यास्ततो भीतिर्न जायते ॥ २४ ॥
 तस्मात्पूर्व विधायैवं रक्षां सावहितो नरः ।
 प्रजपेत्स्वेष्टमन्त्रस्तु निर्भीतो मुनिसत्तम ॥ २५ ॥
 ॥ नारद उवाच ॥ 
 कवचं कीदृशं देव्या महाभयनिवर्तकम् ।
 कामाख्यायास्तु तद्ब्रूहि साम्प्रतं मे महेश्वर ॥ २६ ॥
 ॥ श्रीमहादेव उवाच ॥ 
 शृणुष्व परमं गुह्यं महाभयनिवर्तकम् ।
 कामाख्यायाः सुरश्रेष्ठ कवचं सर्वमङ्गलम् ॥ २७ ॥
 यस्य स्मरणमात्रेण योगिनीडाकिनीगणाः ।
 राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ॥ २८ ॥
 क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः ।
 दूरादपि पलायन्ते कवचस्य प्रसादतः ॥ २९ ॥
 निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः ।
 समासक्तमनाश्चापि जपहोमादिकर्मसु ।
 भवेच्च मन्त्रतन्त्राणां निर्विघ्नेन सुसिद्धये ॥ ३० ॥
 ॥ अथ कवचम् ॥ 
 ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
 आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ ३१ ॥
 नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
 वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ ३२ ॥
 कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
 ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३३ ॥
 ऊर्ध्वं रक्षतु मे विद्या मातङ्गी पीठवासिनी ।
 सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ३४ ॥
 ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
 शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ३५ ॥
 त्रिपुरा भ्रूयुगे पातु शर्वाणी पातु नासिकाम् ।
 चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ॥ ३६ ॥
 मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
 जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ३७ ॥
 वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
 बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ३८ ॥
 पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
 उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ३९ ॥
 उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
 गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ ४० ॥
 पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
 रक्तमांसास्थिमज्जादीन्यातु देवी शवासना ॥ ४१ ॥
 महाभयेषु घोरेषु महाभयनिवारिणी ।
 पातु देवी महामाया कामाख्या पीठवासिनी ॥ ४२ ॥
 भस्माचलगता दिव्यसिंहासनकृताश्रया ।
 पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ ४३ ॥
 रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
 तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ ४४ ॥
 ॥ फलश्रुति ॥
 इदं तु परमं गुह्यं कवचं मुनिसत्तम ।
 कामाख्या या मयोक्तं ते सर्वरक्षाकरं परम् ॥ ४५ ॥
 अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् ।
 न तं स्पृशेद्भयं घोरं मन्त्रसिद्धिविरोधकम् ॥ ४६ ॥
 जायते च मनःसिद्धिर्निर्विघ्नेन महामते ।
 इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ॥ ४७ ॥
 अव्याहताज्ञः स भवेत्सर्वविद्याविशारदः ।
 सर्वत्र लभते सौख्यं मङ्गलं तु दिने दिने ॥ ४८ ॥
 यः पठेत्प्रयतो भूत्वा कवचं चेदमद्भुतम् ।
 स देव्याः पदवीं याति सत्यं सत्यं न संशयः ॥ ४९ ॥
 ॥ इति श्रीमहाभागवते देवीपुराणे श्रीमहादेव-नारद संवादे श्रीमहाकामाख्या कवचम् ॥
No comments:
Post a Comment