Monday, November 4, 2024

अपामार्जन विधान Apaamarjan Vidhan

 अपामार्जन विधान Apaamarjan Vidhan


अपामार्जन विधान

श्री अग्निनारायणरुवाच 

ॐ नमःपरमार्थाय पुरुषाय महात्मने | 

अरूपबहुरूपाय व्यापिने परमात्मने || 


निष्कल्मषाय शुद्धाय ध्यानयोगरताय च |

नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः || 


वराहाय नृसिंहाय वामनाय महात्मने | 

नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः ||


त्रिविक्रमाय रामाय वैकुण्ठाय नराय च | 

नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः ||

 

वराह नरसिंहेश वामनेश त्रिविक्रम |

हयग्रीवेश सर्वेश हृ हृषीकेश हराशुभम्


अपराजित चक्राद्यैश्चतुर्भिः परमायुधैः |

अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ||


हरामुकस्य दुरितं सर्वं च कुशलं कुरु |

मृत्युबन्धार्तिभयदं दुरिष्टस्य च यत्फलम् ||


पराभिध्यानसहितैः प्रयुक्तं चाभिचारिकम् |

गरस्पर्शमहारोगप्रयोगं जरया जर ||


ॐ नमो वासुदेवाय नमः कृष्णाय खड्गिने |

नमः पुष्करनेत्राय केशवायादिचक्रिणे ||


नमः कमलकिञ्जल्कपीतनिर्मलवाससे |

महाहयरिपुस्कन्धधृष्टचक्राय चक्रिणे ||


दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्तिमते नमः |

महायज्ञवराहाय शेषभागाङ्कशायिने ||


तप्तहाटककेशान्तज्वलत्पावकलोचन |

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ||


काश्यपायातिह्रस्वाय ऋग्यजुः सामभूषिणे |

तुभ्यं वामनरुपायाक्रमते गां नमो नमः ||


वराहाशेषदुष्टानि सर्वपापफलानि वै |

मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ||


नारसिंह करालास्य दन्तप्रान्तानलाज्ज्वल |

भञ्ज भञ्ज निनादेन दुष्टान् पश्यार्तिनाशन ||


ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरुपधृक् |

प्रशमं सर्वदुःखानि नयत्वस्य जनार्दन ||


ऐकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम् |

चातुर्थिकं तथात्युग्रं तथैव सततं ज्वरम् || 


दोषोत्थं संनिपातात्थं तथैवागन्तुकं ज्वरम् |

शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् ||


नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् |

अनिश्वासमतिश्वासं परितापं सवेपथुम् ||


गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् |

कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ||


भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलिम् |

अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ||


ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः |

कफोद्भवाश्च ये केचिद् ये चान्ये सांनिपातिकाः ||


आगन्तुकाश्च ये रोगा लूताविस्फोटकादयः |

ते सर्वे प्रशमं यान्तु वासुदेवस्य कीर्तनत् ||


विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च |

क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ||


अच्युतानन्तगोविन्दनामोच्चारणभेषजात् |

नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ||


स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् |

दन्तोद्भवं नखभवमाकाशप्रभवं विषम् || २७ ||


लूतादिप्रभवं यच्च विषमन्यत्तु  दुःखदम् |

शमं नयतु तत्सर्वं वासुदेवस्य कीर्तनम् ||


ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् |

वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् ||


शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् |

मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ||


वृद्धिकाख्यान्ग्रहाश्चोग्रांस्तथा मातृग्रहानपि |

बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ||


वृद्धाश्च ये ग्रहाः केचिद् ये च बालग्रहाः क्वचित् |

नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ||


सटाकरालवदनो नारसिंहो महाबलः |

ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ||


नरसिंह महासिंह ज्वालामालोज्ज्वलानन |

ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ||


ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः |

यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ||


शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः |

तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ||


किंचिद्रूपं समास्थाय वासुदेवास्य नाशय |

क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् ||


सर्वदुष्टोपशमनं कुरु देववराच्युत |

सुदर्शन महाज्वाला च्छिन्धि च्छिन्धि महारव ||


सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण |

प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ||


रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः |

दिवि भुव्यन्तरिक्षे च पृष्ठतः पार्श्वतोऽग्रतः ||


रक्षां करोतु भगवान् बहुरुपी जनार्दनः |

यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषम् ||


तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै |

यथा विष्णौ स्मृते सद्यः संक्षयं यान्ति पातकाः ||


सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु |

यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ||


सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् |

शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ||


वासुदेवशरीरोत्थैः कुशैर्निर्णाशितं मया |

अपमार्जति गोविन्दो नरो नारायणस्तथा ||


तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः |

अपामार्जनकं शस्तं सर्वरोगादिवारणम् ||


अहं हरिः कुशा विष्णुर्हता रागा मया तव ||


|| अस्तु ||

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )