Monday, September 27, 2021

VEDOKT PITR SUKT FOR PITR DOSH SHANTI॥ पितृ दोष शान्ति वेदोक्त पितृसूक्त ॥

 VEDOKT PITR SUKT FOR PITR DOSH SHANTI॥ पितृ दोष शान्ति वेदोक्त पितृ सूक्त ॥


शुक्लयजुर्वेद के अध्याय 35 में पितृसूक्त दिया गया है। इसका नियमित पाठ करने से पितृ दोष की शान्ति होती है। यह सूक्त निम्नलिखित है –


अपेतो यन्तु पणयोऽसुम्ना देवपीयवः ।

अस्य लोकः सुतावतः ।

द्युभिरहोभिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै ॥ १ ॥

सविता ते शरीरेभ्यः पृथिव्याँल्लोकमिच्छतु ।

तस्मै युज्यन्तामुस्रियाः ॥ २ ॥

वायुः पुनातु सविता पुनात्वग्नेर्भ्राजसा सूर्यस्य वर्चसा ।

वि मुच्यन्तामुस्रियाः ॥ ३ ॥

अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।

गोभाजऽ इत्किलासथ यत्सनवथ पूरुषम् ॥ ४ ॥

सविता ते शरीराणि मातुरुपस्थऽ आ वपतु ।

तस्मै पृथिवि शं भव ॥ ५ ॥

प्रजापतौ त्वा देवतायामुपोदके लोके नि दधाम्यसौ ।

अप नः शोशुचदघम् ॥ ६ ॥

परं मृत्योऽ अनु परेहि पन्थां यस्तेऽ अन्यऽ इतरो देवयानत् ।

चक्षुष्मते श्रुण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ७ ॥

शं वातः शँ हि ते घृणिः शं ते भवन्त्विष्टकाः ।

शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥ ८ ॥

कल्पन्तां ते दिशस्तुभ्यमापः शिवतमास्तुभ्यं भवन्तु सिन्धवः ।

अन्तरिक्षँ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥ ९ ॥

अश्मन्वती रीयते सँ रभध्वमुत्तिष्ठत प्र तरता सखायः ।

अत्रा जहीमोऽशिवा येऽ असञ्छिवान्वयमुत्तरेमाभि वाजान् ॥ १० ॥

अपाघमप किल्बिषमप कृत्यामपो रपः ।

अपामार्ग त्वमस्मदप दुःष्वप्न्यँ सुव ॥ ११ ॥

सुमित्रिया नऽ आपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै

सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ १२ ॥

अनड्वाहमन्वारभामहे सौरभेयँ स्वस्तये ।

स नऽ इंद्रऽइव देवेभ्यो वह्निः संतारणो भव ॥ १३ ॥

उद्वयं तमसस्परि स्वः पश्यन्तऽ उत्तरम् ।

देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ १४ ॥

इमं जीवेभ्यं परिधिं दधामि मैषां नु गादपरोऽ अर्थमेतम् ।

शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥ १५ ॥

अग्नऽ आयुँषि पवसऽ आ सुवोर्जमिषं च नः ।

आरे बाधस्व दुच्छुनाम् ॥ १६ ॥

आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि ।

घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमान्त्स्वाहा ॥ १७ ॥

परीमे गामनेषत पर्यग्निमहृषत ।

देवेष्वक्रत श्रवः कऽ इमाँ २ऽ आ दधर्षति ॥ १८ ॥

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।

इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ १९ ॥

वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके ।

मेदसः कुल्याऽ उप तान्त्स्रवन्तु सत्याऽ

एषामाशिषः सं नमन्ताँ स्वाहा ॥ २० ॥

स्योना पृथिवि नो भवनृक्षरा निवेशनी ।

यच्छा नः शर्म सुप्रथाः अप नः शोशुचदघम् ॥ २१ ॥

अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः ।

असौ स्वर्गाय लोकाय स्वाहा ॥ २२ ॥

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )