Sunday, September 26, 2021

SATYA NARAYAN VRAT KATHA सत्यनारायण व्रत कथा

SATYA NARAYAN VRAT KATHA सत्यनारायण व्रत कथा

 

प्रथमोऽध्यायः

श्रीभगवानुवाच-

साधु पृष्टं त्वया वत्स! लोकानुग्रहकाङ्‌क्षया।

यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥6॥ 

विधानं च व्रतस्यास्य विप्रायाऽऽभाष्य यत्नतः।

चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्‌॥32॥ 

आधिव्याधिसमायुक्ता क्षुत्पिपसातिदुःखिता।


व्यास उवाच-

एकदा नैमिषारण्ये ऋषयः शौनकादयः।

पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु॥1॥


ऋषयः ऊचुः-

व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम्‌।

तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने !॥2॥


सूत उवाच-

नारदेनैव सम्पृष्टो भगवान्‌ कमलापतिः।

सुरर्षये यथैवाऽऽह तच्छृणुध्वं समाहिताः॥3॥

एकदा नारदो योगी परानुग्रहकाङ्‌क्षया।

पर्यटन्‌ विविधान्‌ लोकान्‌ मर्त्य लोकमुपागतः॥4॥

तत्र दृष्ट्‌वा जनान्‌ सर्वान्‌ नाना क्लेशसमन्वितान्‌।

नाना योनिसमुत्पन्नान्‌ क्लिश्यमानान्‌ स्वकर्मभिः॥5॥

केनोपायेन चैतेषां दुःखनाशो भवेद्‌ ध्रुवम्‌।

इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥6॥

तत्र नारायणं देवं कृष्णवर्णं चतुर्भुजम्‌।

शङ्‌ख-चक्र- गदा-पद्‌म-वन मालाविभूषितम्‌॥7॥

दृष्ट्‌वा तं देवदेवेशं स्तोतुं समुपचक्रमे।


नारद-उवाच-

नमो वाङ्‌मनसाऽतीतरूपायाऽनन्तशक्तये॥8॥

आदि-मध्याऽन्तहीनाय निर्गुणाय गुणात्मने।

सर्वेषामादिभूताय भक्तानामार्तिनाशिने॥9॥

श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत।


 श्रीभगवानुवाच-

किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते॥10॥

कथयस्व महाभाग तत्सर्वं कथयामि ते।


नारद उवाच-

मर्त्यलोके जनाः सर्वे नाना क्लेशसमन्विताः।

नाना योनिसमुत्पन्नाः क्लिश्यन्ते पापकर्मभिः॥11॥

तत्कथं शमयेन्नाथ लघूपायेन तद्‌ वद।

श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि॥12॥

यत्कृत्वा मुच्यते मोहात्‌ तच्क्षुणुष्व वदामि ते॥13॥

व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुलर्भम्‌।

तव स्नेहान्मया वत्स! प्रकाशः क्रियतेऽधुना॥14॥

सत्यनारायणस्यैतद्‌ व्रतं सम्यग्विधानतः।

कृत्वा सद्यःसुखं भुक्त्वा परत्र मोक्षमाप्नुयात्‌॥15॥

तच्छ्रत्वा भगवद्‌ वाक्यं नारदो मुनिरब्रवीत्‌।


नारद उवाच-

किं फलं किं विधानं च कृतं केनैव तद्‌व्रतम्‌॥16॥

तत्सर्वं विस्तराद्‌ बू्रहि कदा कार्यं व्रतं हि तत्‌।


श्रीभगवानुवाच-

दुःख-शोकादिशमनं धन-धान्यप्रवर्धनम्‌॥17॥

सौभाग्य-सन्ततिकरं सर्वत्रा विजयप्रदम्‌।

यस्मिन्‌ कस्मिन्‌ दिने मर्त्यो भक्ति श्रद्धासमन्वितः॥18॥

सत्यनारायणं देवं यजेच्चैव निशामुखे।

ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः॥19॥

नैवेद्यं भक्तितो दद्यात्‌ सपादं भक्तिसंयुतम्‌।

रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम्‌॥ 20॥

अभावे शालिचूर्णं वा शर्करा वा गुडं तथा।

सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत्‌ ॥21॥

विप्राय दक्षिणां दद्यात्‌ कथां श्रुत्वा जनैः सह।

ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत्‌॥22॥

प्रसादं भक्षयेद्‌ भक्त्यानृत्यगीतादिकं चरेत्‌।

ततश्च स्वगृहं गच्छेत्‌ सत्यनारायणं स्मरन्‌॥ 23॥

एवं कृते  मनुष्याणां वाञ्छासिद्धिर्भवेद्‌ ध्रुवम्‌।

विशेषतः कलियुगे लघूपायोऽस्ति भूतले॥24॥


इति श्री स्कन्दपुराणे रेवाखण्डे सूत-शौन-संवादे सत्यनारायण-व्रत कथायां प्रथमोऽध्यायः॥1॥


द्वितीयोऽध्यायःᅠ

सूत उवाच-

अथाऽन्यत्‌ सम्प्रवक्ष्यामि कृतं येन पुरा व्रतम्‌।

 कश्चित्‌ काशीपुरे रम्ये ह्यासीद्‌ विप्रोऽतिनिर्धनः॥1॥

 क्षुत्तृड्‌भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले।

 दुःखितं ब्राह्मणं दृष्ट्‌वा भगवान्‌ ब्राह्मणप्रियः॥2॥

 वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात्‌।

 किमर्थं भ्रमसे विप्र! महीं नित्यं सुदुः खितः ॥3॥

 तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम!।

 ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम्‌॥4॥

 उपायं यदि जानासि कृपया कथय प्रभो!

 

वृद्धब्राह्मण उवाच-

सत्यनारायणो विष्णुर्व×छितार्थफलप्रदः॥5॥

 तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम्‌।

 सत्यनारायणोवृद्ध-स्तत्रौवान्तर धीयत॥7॥

 तद्‌ व्रतं सङ्‌करिष्यामि यदुक्तं ब्राह्मणेन वै।

 इति स×चिन्त्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान्‌॥8॥

 ततः प्रातः समुत्थाय सत्यनारायणव्रतम्‌।

 करिष्य इति सङ्‌कल्प्य भिक्षार्थमगद्‌ द्विजः॥9॥

 तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान्‌।

 तेनैव बन्धुभिः साद्‌र्धं सत्यस्य व्रतमाचरत्‌॥10॥

 सर्वदुःखविनिर्मुक्तः सर्वसम्पत्‌ समन्वितः।

 बभूव स द्विज-श्रेष्ठो व्रतास्यास्य प्रभावतः॥11॥

 ततः प्रभृतिकालं च मासि मासि व्रतं कृतम्‌।

 एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः॥12॥

 सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान्‌।

 व्रतमस्य यदा विप्राः पृथिव्यां स×चरिष्यन्ति॥13॥

तदैव सर्वदुःखं च मनुजस्य विनश्यति।

एवं नारायणेनोक्तं नारदाय महात्मने ॥14॥

मया तत्कथितं विप्राः किमन्यत्‌ कथयामि वः।


 ऋषय ऊचुः-

तस्माद्‌ विप्राच्छु्रतं केन पृथिव्यां चरितं मुने।

तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते॥15॥

सूत उवाच-श्रृणुध्वं मुनयःसर्वे व्रतं येन कृतं भुवि।

एकदा स द्विजवरो यथाविभवविस्तरैः॥16॥

बन्धुभिः स्वजैनः सार्ध व्रतं कर्तुं समुद्यतः।

एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत्‌॥17॥

बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ।

तृष्णया पीडितात्मा च दृष्ट्‌वा विप्रकृतं व्रतम्‌ ॥18॥

प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया।

कृते किं फलमाप्नोति विस्तराद्‌ वद मे प्रभो! ॥19॥

विप्र उवाच-सत्यनाराणस्येदं व्रतं सर्वेप्सित- प्रदम्‌।

तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत्‌॥20॥

तस्मादेतत्‌ ब्रतं ज्ञात्वा काष्ठक्रेतातिहर्षितः।

पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ॥21॥

सत्यनारायणं देवं मनसा इत्यचिन्तयत्‌।

काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम्‌॥22॥

तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम्‌।

इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके॥23॥

जगाम नगरे रम्ये धनिनां यत्र संस्थितिः।

तदि्‌दने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ॥24॥

ततः प्रसन्नहृदयः सुपक्वं कदलीफलम्‌।

शर्करा-घृत-दुग्धं च गोधूमस्य च चूर्णकम्‌ ॥25॥

कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ।

ततो बन्धून्‌ समाहूय चकार विधिना व्रतम्‌॥26॥

तद्‌ व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्‌।

इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥27॥

इति श्री स्कन्दपुराणे रेवाखण्डे सूत शौनकसंवादे सत्यनारायण व्रतकथायां द्वितीयोऽध्यायः ॥2॥

  

तृतीयोऽध्यायःᅠ

सूत उवाच-

पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमाः।

पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः॥1॥

जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति।

दिने दिने धनं दत्त्वा द्विजान्‌ सन्तोषयत्‌ सुधीः॥2॥

भार्या तस्य प्रमुग्धा च सरोजवदना सती।

भद्रशीलानदीतीरे  सत्यस्य व्रतमाचरत्‌॥3॥

एतस्मिन्‌ समये तत्र साधुरेकः समागतः।

वाणिज्यार्थं बहुधनैरनेकैः परिपूरिताम्‌ ॥4॥

नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति।

दृष्ट्‌वा स व्रतिनं भूपं पप्रच्छ विनयान्वितः॥5॥

साधुरुवाच-किमिदं कुरुषे राजन्‌! भक्तियुक्तेन चेतसा।

प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम्‌॥6॥


राजोवाच-

पूजनं क्रियते साधो! विष्णोरतुलतेजसः ।

व्रतं च स्वजनैः सार्धं पुत्रााद्यावाप्तिकाम्यया॥7॥

भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम्‌।

सर्वं कथय में राजन्‌! करिष्येऽहं तवोदितम्‌॥8॥

ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम्‌।

ततो निवृत्य वाणिज्यात्‌ सानन्दो गृहमागतः॥9॥

भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम्‌।

तदा व्रतं करिष्यामि यदा में सन्ततिर्भवेत्‌ ॥10॥

इति लीलावती प्राह स्वपत्नीं साधुसत्तमः।

एकस्मिन्‌ दिवसे तस्य भार्या लीलावती सती॥11॥

भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा।

गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादतः ॥12॥

दशमे मासि वै तस्याः कन्यारत्नमजायत।

दिने दिने सा ववृधे शुक्लपक्षे यथा शशी॥13॥

नाम्ना कलावती चेति तन्नामकरणं कृतम्‌।

ततो लीलावती प्राह स्वामिनं मधुरं वचः॥14॥

न करोषि किमर्थं वै पुरा सङ्‌कल्पितं व्रतम्‌।

साधुरुवाच-विवाहसमये त्वस्याः करिष्यामि व्रतं प्रिये!॥15॥

इति भार्यां समाश्वास्य जगाम नगरं प्रति।

ततः कलावती कन्या वृधपितृवेश्मनि॥16॥

दृष्ट्‌वा कन्यां ततः साधुर्नगरे सखिभिः सह।

मन्त्रायित्वा दु्रतं दूतं प्रेषयामास धर्मवित्‌॥17॥

विवाहार्थं च कन्याया वरं श्रेष्ठ विचारय।

तेनाऽऽज्ञप्तश्च दूतोऽसौ का×चनं नगरं ययौ ॥18॥

तस्मादेकं वणिक्पुत्रां समादायाऽऽगतो हि सः।

दृष्ट्‌वा तु सुन्दरं बालं वणिक्‌पुत्रां गुणान्वितम्‌॥19॥

ज्ञातिभि-र्बन्धुभिः सार्धं परितुष्टेन चेतसा।

दत्तवान्‌ साधुपुत्रााय कन्यां विधि-विधानतः ॥20॥

ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्‌।

विवाहसमये तस्यास्तेन रुष्टोऽभवत्‌ प्रभुः ॥21॥

ततः कालेन नियतो निजकर्मविशारदः।

वाणिज्यार्थं ततः शीघ्रं जामातृसहितो वणिक्‌॥22॥

रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपतः।

वाणिज्यमकरोत्‌ साधुर्जामात्रा श्रीमता सह॥ 23॥

तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च।

एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥24॥

भ्रष्टप्रतिज्ञमा-लोक्य शापं तस्मै प्रदत्तवान्‌।

दारुणं कठिनं चास्य महद्‌्‌दुःखं भविष्यिति॥25॥

एकस्मिन्‌ दिवसे राज्ञो धनमादाय तस्करः।

तत्रौव चागतश्चौरौ वणिजौ यत्र संस्थितौ॥26॥

तत्पश्चाद्‌ धावकान्‌ दूतान्‌ दृष्ट्‌वा भीतेन चेतसा।

धनं संस्थाप्य तत्रौव स तु शिघ्रमलक्षितः॥27॥

ततो दूताः समायाता यत्रास्ते सज्जनो वणिक्‌।

द्दष्ट्‌वा नृपधनं तत्र बद्‌ध्वाऽ ऽनीतौ वणिक्सुतौ॥28॥

हर्षेण धावमानाश्च ऊचुर्नृपसमीपतः।

तस्करौ द्वौ समानीतौ विलोक्याऽऽज्ञापय प्रभो॥29॥

राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्‌ध्वा तु तावुभौ।

स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः॥30॥

मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः।

अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना॥31॥

तच्छापाच्च तयोर्गेहे भार्या चैवातिदुःखिता।

अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे॥33॥

कलावती तु कन्यापि बभ्राम प्रतिवासरम्‌।

एकस्मिन्‌ दिवसे जाता क्षुधार्ता द्विजमन्दिरम्‌ ॥34॥

गत्वाऽपश्यद्‌ व्रतं तत्र सत्यनारायणस्य च।

उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाि ×छतम्‌॥35॥

प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति।

माता लीलावती कन्यां कथयामास प्रेमतः॥36॥

पुत्रिा रात्राौ स्थिता कुत्रा किं ते मनसि वर्तते।

कन्या कलावती प्राह मातरं प्रति सत्वरम्‌॥37॥

द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम्‌।

तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तु समुद्यता॥38॥

सा तदा तु वणिग्भार्या सत्यनारायणस्य च।

व्रतं चक्रे सैव साध्वी बन्धुभिः स्वजनैः सह॥39॥

भर्तृ-जामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम्‌।

इति दिव्यं वरं बब्रे सत्यदेवं पुनः पुनः॥40॥

अपराधं च मे भर्तुर्जामातुः क्षन्तुमर्हसि।

व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः॥41॥

दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम्‌।

वन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम!॥42॥

देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना।

नो चेत्‌ त्वा नाशयिष्यामि सराज्यं-धन-पुत्रकम्‌॥43॥

एवमाभाष्य राजानं ध्यानगम्योऽभवत्‌ प्रभुः।

ततः प्रभातसमये राजा च स्वजनैः सह॥44॥

उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति॥

बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ॥45॥

इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ।

समानीय नृपस्याऽग्रे प्राहुस्ते विनयान्विताः॥46॥

आनीतौ द्वौ वणिक्पुत्रौ मुक्त्वा निगडबन्धनात्‌।

ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम्‌॥47॥

स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविद्दलौ।

राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम्‌॥48॥

दैवात्‌ प्राप्तं महद्‌दुःखमिदानीं नास्ति वै भयम्‌।

तदा निगडसन्त्यागं क्षौरकर्माऽद्यकारयत्‌॥49॥

वस्त्राालङ्‌कारकं दत्त्वा परितोष्य नृपश्च तौ।

पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोच्चयद्‌ भृशम्‌॥50॥

पुराऽऽनीतं तु यद्‌ द्रव्यं द्विगुणीकृत्य दत्तवान्‌।

प्रोवाच तौ ततो राजा गच्छ साधो! निजाश्रमम्‌॥51॥

राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादतः।

इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति॥52॥

इति श्री स्कन्दपुराणे रेवाखण्डे सूतशौनकसंवादे सत्यनारायणव्रतकथायां तृतीयोध्यायः।


चतुर्थोध्यायःᅠ

सूत उवाच-

यात्रां तु कृतवान्‌ साधुर्मङ्‌गलायनपूर्विकाम्‌।

ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ॥1॥

कियद्‌ दूरे गते साधौ सत्यनारायणः प्रभुः।

जिज्ञासां कृतवान्‌ साधो! किमस्ति तव नौ स्थितम्‌॥2॥

ततो महाजनौ मत्तौ हेलया च प्रहस्य वै।

कथं पृच्छसि भो दण्डिन्‌! मुद्रां नेतुं किमिच्छसि॥3॥

लता-पत्रादिकं चैव वर्तते तरणौ मम।

निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः॥4॥

एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः।

कियद्‌दूरे ततो गत्वा स्थितः सिन्धुसमीपतः॥5॥

गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा।

उत्थितां तरणीं ट्टष्ट्‌वा विस्मयं परमं ययौ ॥6॥

दृष्ट्‌वा लतादिकं चैव मूर्च्छितो न्यपतद्‌ भुवि।

लब्धसंज्ञो वणिक्‌ पुत्रास्ततश्चिन्ताऽन्वितोऽभवत्‌॥7॥

तदा तु दुहितुः कान्तो वचनं चेदमब्रवीत्‌॥

किमर्थं क्रियते शोकः शापो दत्तश्च दण्डिना॥8॥

शक्यतेऽनेन सर्वं हि कर्तुं चात्रा न संशयः।

अतस्तच्छरणं याहि वञ्छितार्थो भविष्यति ॥9॥

जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा॥

द्दष्ट्‌वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्‌॥10॥

क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ॥

एवं पुनः पुनर्नत्वा महाशोकाऽऽकुलोऽभवत्‌॥11॥

प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च।

मारोदीः श्रृणु मद्वाक्यं मम पूजाबहिर्मुखः॥12॥

ममाऽऽज्ञया च दुर्बुद्‌धे! लब्धं दुःखं मुहुर्मुहुः।

तच्छ्रुत्वा भगवद्‌ वाक्यं व्रतं कर्तुं समुद्यतः॥13॥

साधुरुवाच-त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिादिवौकसः।

न जानन्ति गुणान्‌ रूपं तवाऽऽश्चर्यर्ममिदं प्रभो॥14॥

मूढोऽहं त्वां कथं जाने मोहितस्तव मायया।

प्रसीद पूजमिष्यामि यथाविभवविस्तरैः॥15॥

पुरा वित्तैश्च तत्सर्वैः पाहि मां शरणागतम्‌।

श्रुत्वा भक तियुतं वाक्यं परितुष्टो जनार्दनः॥16॥

वरं च वाञ्छितं दत्त्वा तत्रौवाऽन्तर्दधे हरिः।

ततो नौकां समारुह्य दृष्ट्‌वा वित्तप्रपूरिताम्‌॥17॥

कृपया सत्यदेवस्य सफलं वाञ्छितं मम।

इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि॥18॥

हर्षेण चाऽभवत्पूर्णः सत्यदेवप्रसादतः।

नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्‌॥19॥

साधुर्जामातरं प्राह पश्य रत्नपुरीं मम।

दूतं च प्रेषयामास निजवित्तस्य रक्षकम्‌॥20॥

दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च।

प्रोवाच वाञ्छितंवाक्यं नत्वा बद्धा×जलिस्तदा॥21॥

निकटे नगरस्यैव जामात्रा सहितो वणिक्‌।

आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः॥22॥

श्रुत्वा दूतमुखाद्‌ वाक्यं महाहर्षवती सती।

सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति॥23॥

ब्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च।

इति मातृवचः श्रुत्वा व्रतं कृत्वा समासतः॥24॥

प्रसादं च परित्यज्य गता साऽपि पतिं प्रति।

तेन रुष्टः सत्यदेवो भर्तारं तरणीं तथा॥25॥

संहृत्य च धनैः सार्धं जले तस्मिन्नमज्जयत्‌।

ततः कलावती कन्या न विलोक्य निजं पतिम्‌॥26॥

शोकेन महता तत्र रुदती चाऽपतद्‌ भुवि।

दृष्ट्‌वा तथाविधां नौकां कन्यां च बहुदुःखिताम्‌ ॥27॥

भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत्‌

चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः॥28॥

ततो लीलावती कन्या दृष्ट्‌वा सा विह्नलाऽभवत्‌।

विललापऽतिदुः खेन भर्तारं चेदमब्रतीत्‌॥29॥

इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः।

न जाने कस्य देवस्य हेलया चैव सा हृता॥30॥

सत्यदेवस्य मााहात्म्यं ज्ञातुं वा केन शक्यते।

इत्युक्त्वा विलालपैवं ततश्च स्वजनैः सह॥31॥

ततौ लीलावती कन्या क्रोडे कृत्वा रुरोद ह।

ततः कलावती कन्या नष्टे स्वामिनि दुःखिता॥32॥

गृहीत्वा पादुकां तस्याऽनुगन्तुं च मनोदधे।

कन्यायाश्चरितं दृष्ट्‌वा सभार्यः सज्जनो वणिक्‌॥33॥

अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्‌।

हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥34॥

सत्यपूजां करिष्यामि यथाविभवविस्तरम्‌।

इति सर्वान्‌ समाहूय कथयित्वा मनोरथम्‌॥35॥

नत्वा च दण्डवद्‌ भूमौ सत्यदेवं पुनः पुनः।

ततस्तुष्टः सत्यदेवो दीनानां परिपालकः॥36॥

जगाद वचनं चैनं कृपया भक्तवत्सलः।

त्यक्त्त्वा प्रसादं ते कन्या पतिं दु्रष्टुं समागता॥37॥

अतोऽदृष्टोभवत्तस्याः कन्यकायाः पतिर्ध्रुवम्‌।

गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः॥38॥

लब्धभत्रर्ाी सुता साधो! भविष्यति न संशयः।

कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्‌॥39॥

क्षिपं्र तदा गृहं गत्वा प्रसादं च बुभोज सा।

तत्‌ पश्चात्पुनरागत्य सा ददर्श निजं पतिम्‌॥40॥

ततः कलावती कन्या जगाद पितरं प्रति।

इदानीं च गृहं याहि विलम्बं कुरुषे कथम्‌॥41॥

तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद वणिक्सुतः।

पूजनं सत्यदेवस्य कृत्वा विधिविधानतः॥42॥

धनैर्बन्धुगणैः सार्धं जगाम निजमन्दिरम्‌॥

पौर्णमास्यां च सङ्‌क्रान्तौ कृतवान्‌ सत्यपूजनम्‌॥43॥

इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥44॥

इति श्री सकन्दपुराणे रेवाखण्डे सूतशौनकसंवादे सत्यनारायणव्रतकथायां चतुर्थोऽध्यायः॥4॥

   

पञ्चमोध्यायःᅠ

सूत उवाच-

अथान्यत् संप्रवक्ष्यामि श्रृणध्वं मुनिसत्तमाः॥

आसीत्‌ तुङ्‌गध्वजो राजा प्रजापालनतत्परः॥1॥

प्रसादं सत्यदेवस्य त्यक्त्त्वा दुःखमवाप सः।

एकदा स वनं गत्वा हत्वा बहुविधान्‌ पशून्‌॥2॥

आगत्य वटमूलं च दृष्ट्‌वा  सत्यस्य पूजनम्‌।

गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ताः सबन्धवाः॥3॥

राजा दृष्ट्‌वा तु दर्पेण न गतो न ननाम सः।

ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥4॥

संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम्‌।

ततः प्रसादं संत्यज्य राजा दुःखमवाप सः॥5॥

तस्य पुत्राशतं नष्टं धनधान्यादिकं च यत्‌।

सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम्‌॥6॥

अतस्तत्रैव गच्छामि यत्र देवस्य पूजनन्‌।

मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ॥7॥

ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह।

भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः॥8॥

सत्यदेवप्रसादेन धनपुत्राऽन्वितोऽभवत्‌।

इह लोके सुखं भुक्त्वा पश्चात्‌ सत्यपुरं ययौ॥9॥

य इदं कुरुते सत्यव्रतं परम दुर्लभम्‌।

श्रृणोति च कथां पुण्यां भक्तियुक्तां फलप्रदाम्‌॥10॥

धनधान्यादिकं तस्य भवेत्‌ सत्यप्रसादतः।

दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात्‌॥11॥

भीतो भयात्‌ प्रमुच्येत सत्यमेव न संशयः।

ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं ब्रजेत्‌॥12॥

इति वः कथितं विप्राः सत्यनारायणव्रतम्‌।

यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः॥13॥

विशेषतः कलियुगे सत्यपूजा फलप्रदा।

केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च॥14॥

सत्यनारायणं केचित्‌ सत्यदेवं तथापरे।

नाना रूपधरो भूत्वा सर्वेषामीप्सितप्रदः॥15॥

भविष्यति कलौ सत्यव्रतरूपी सनातनः।

श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम्‌॥16॥

श्रृणोति य इमां नित्यं कथा परमदुर्लभाम्‌।

तस्य नश्यन्ति पापानि सत्यदेव प्रसादतः॥17॥

व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च।

तेषां त्वपरजन्मानि कथयामि मुनीश्वराः॥19॥

शतानन्दो महा-प्राज्ञः सुदामा ब्राह्मणोऽभवत्‌।

तस्मिन्‌ जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह॥19॥

काष्ठभारवहो भिल्लो गुहराजो बभूव ह।

तस्मिन्‌ जन्मनि श्रीरामसेवया मोक्षमाप्तवान्‌॥20॥

उल्कामुखो महाराजो नृपो दशरथो-ऽभवत्‌।

श्रीरङ्‌नाथं सम्पूज्य श्रीवैकुण्ठं तदाऽगमत्‌॥21॥

धार्मिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत्‌।

देहार्धं क्रकचैश्छित्वा दत्त्वा मोक्षमवाप ह॥22॥

तुङ्‌गध्वजो महाराजः स्वायभ्मुरभवत्‌ किल।

सर्वान्‌ भागवतान्‌ कृत्वा श्रीवैकुण्ठं तदाऽगमत्‌॥23॥

इति श्री स्कन्दपुराणे रेवाखण्डे सूतशौनकसंवादे। सत्यनारायणव्रतकथायां पञ्चमोध्यायः ॥ᅠ5॥

No comments:

Post a Comment

विशेष सुचना

( जो भी मंत्र तंत्र टोटका इत्यादि ब्लॉग में दिए गए है वे केवल सूचनार्थ ही है, अगर साधना करनी है तो वो पूर्ण जानकार गुरु के निर्देशन में ही करने से लाभदायक होंगे, किसी भी नुक्सान हानि के लिए प्रकाशक व लेखक जिम्मेदार नहीं होगा। )